Episodios

  • अर्थहीनं वस्तुजातम्
    Jun 1 2025

    अस्यां कथायां वेदव्यासस्य पुत्रेण शुकदेवेन ज्ञायते यत् एतस्मिन् जगति विधिना निर्मितस्य वस्तुजातस्य अवश्यं हि कापि उपयुक्तता वर्तते एव । पूर्णरूपेण अनुपयुक्तं वस्तु दुर्लभम् एव । ईश्वरेण प्रत्येकं वस्तु मानवलोककल्याणार्थम् एव निर्मितम् । एतस्मिन् लोके सर्वथा अनुपयुक्तम्, अतः एव त्यक्तव्यम् एकमेव वस्तुजातम् । तद् अस्ति अहङ्कारः नाम । अतः सः गुरुं जनकं प्रार्थयते 'निरन्तरं निरहङ्कारः भूत्वा वर्तितुं यत् मनोबलम् आवश्यकं तत् ददातु कृपया' इति ।
    (“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)

    In this story, Shukadeva, the son of Vedavyasa, realizes that in this world, everything created by divine will has a purpose. Completely useless objects are indeed rare. Every creation of God is made for the welfare of humanity. In this world, there is only one entity that is entirely useless and must therefore be abandoned—that is ego. Thus, he prays to his Guru and father, saying, "Kindly grant me the mental strength necessary to always live without ego".

    Más Menos
    7 m
  • कन्यायाः पतिनिर्णयः
    May 31 2025

    कस्यचन पण्डितस्य कन्या सर्वगुणसम्पन्ना उच्चाकाङ्क्षिणी च प्रतिज्ञाबद्धा आसीत् यत् सर्वे यं प्रशंसन्ति, यश्च शक्तिशाली भवति तमेव अहं वृणोमि इति । एकदा सा महाराजं दृष्ट्वा तमेव वृणोमि इति अचिन्तयत् । किन्तु सः यदा गुरोः पादस्पर्शं करोति, तदा गुरुः एव श्रेष्ठः इति चिन्तयति । पुनः गुरुः देवं प्रणमति इति करणेन देवः श्रेष्ठः इति चिन्तयति । अन्ततो गत्वा पण्डितपुत्रः एकः दृष्टेभ्यः सर्वेभ्यः श्रेष्ठः इति मत्वा तेन सह उच्चाकाङ्क्षिण्याः कन्यायाः परिणयः जातः ।
    (“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)

    A scholar's daughter, endowed with all virtues and ambitious, had vowed that she would choose only the one who is admired by all and who is powerful. One day, upon seeing a great king, she thought of choosing him. However, when she noticed the king bowing at the feet of his Guru, she concluded that the teacher is greater. Later, seeing the Guru praying to God, she realized that God is the greatest. Finally, after much thought, she determined that the scholar's son was superior to all she had seen and decided to marry him.
    32. अर्थहीनं वस्तुजातम्

    Más Menos
    5 m
  • संसारमोहः
    May 30 2025

    कदाचित् प्रह्लादः वरयाचनसमये भगवन्तं नृसिंहं वदति यत् 'अहम् एकाकी मुक्तः भवितुं न इच्छामि । सर्वान् अपि जीवान् स्वीकृत्य वैकुण्ठं प्रति गमनाय अनुमतिं ददातु' इति । 'त्वमेव सर्वान् पृष्ट्वा ये वैकुण्ठं गन्तुम् इच्छन्ति तान् सर्वान् स्वीकृत्य आगच्छ' इति भगवान् वदति । ततः प्रह्लादः प्रष्टुं गच्छति । ब्राह्मणाः, परिव्राजकाः, राजानः, वणिजः, सेवकाः, पशुपक्षिणः इत्यादयः सर्वे अपि प्रह्लादेन सह वैकुण्ठं प्रति गमनं तिरस्कृतवन्तः । प्रह्लादः निराशतां प्राप्य 'सर्वेऽपि प्राणिनः स्वस्य एव कौटुम्बिकव्यापारे मग्नाः सन्ति । वैकुण्ठं गन्तुं कोऽपि उद्युक्तः नास्ति' इति भगवन्तम् उक्तवान् ।
    (“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)

    At the time of seeking a boon, Prahlada said to Lord Narasimha, "I do not wish to be liberated alone. Grant permission for all beings to be accepted and to ascend to Vaikuntha". The Lord replied, "You may ask everyone who wishes to go to Vaikuntha, take all those who agree, and then come". Following this, Prahlada went to inquire. Brahmins, ascetics, kings, merchants, servants, animals, birds, and others—all declined to accompany Prahlada to Vaikuntha. Disheartened, Prahlada expressed to the Lord, "All beings are engrossed in their familial and worldly affairs. No one is willing to take the initiative to ascend to Vaikuntha".
    31. कन्यायाः पतिनिर्णयः

    Más Menos
    4 m
  • रहस्यस्य कुञ्चिका
    May 29 2025

    टिबेटदेशे अधिकतया मौनेन स्थितवन्तं साधुपुरुषं दृष्ट्वा जनाः चिन्तितवन्तः यत् एषः सर्वाणि रहस्यानि जानाति इति । कदाचित् कश्चन युवकः तं रहस्यं ज्ञातुं साधुपुरुषम् उपसर्प्य स्वस्य इच्छां निवेदितवान् । साधुपुरुषः किमपि रहस्यं न जानामि इति प्रथमम् अवदत् । किन्तु युवकेन पुनः पुनः निवेदिते साधुपुरुषः सः कथमपि अन्यत्र प्रेषणीयः इति विचिन्त्य -'ॐ मणिपद्मे हुम्' इत्येतं मन्त्रं पुनः पुनः जप इति वदति । तेन सह कथं मानवेन कुञ्चिकया रहस्यम् उद्घाटनीयम् इति सर्वं वदति ।
    (“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)

    In Tibet, people, seeing a saintly person mostly residing in silence, thought that he knew all secrets. One day, a young man approached the saint to know the secret, expressing his desire. At first, the saint said that he didn't know any secrets. However, when the young man insisted repeatedly, the saint, thinking he must be sent away somehow, advised him to chant the mantra 'Om Mani Padme Hum' repeatedly. Along with that, the saint explained how a man could use a key to unlock secrets. It is a profound story with a mix of mystery and wisdom!

    Más Menos
    4 m
  • सुकन्यया निर्मितः आमलकीप्राशः
    May 28 2025

    राज्ञः शयार्तेः तनया सुन्दरी मनोहारिणी च । तनया सुकन्या शापग्रस्तानां सैनिकानां हिताय च्यवनमहर्षिं परिणीय तस्य सेवायै लग्ना असीत् । एकदा अश्विनीकुमारौ ऋषिसेवारतायाः सुकन्यायाः सौन्दर्यम् अवलोक्य 'एतं वृद्धं विहाय आवयोः अन्यतरं वृष्णीष्व' इति उक्तवन्तौ । तन्निराकरोति सुकन्या । तां पतिव्रतां विज्ञाय अश्विनीकुमारौ प्रसन्नौ भूत्वा आमलकीप्राशननिर्माणविधिं कथयामासतुः । तस्य सेवनेन ऋषिः च्यवनः न केवलं विगतविकारः अभवत् अपि च युवा अपि बभूव । ततः आमलकीप्राशः 'च्यवनप्राश' नाम्ना प्रसिद्धः अभवत् ।
    (“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)

    The beautiful and enchanting daughter of King Shayarata, Sukanya, married the sage Chyavana for the welfare of the cursed soldiers. One day, while engaged in the service of the sage, the Ashwini Kumaras, upon seeing the beauty of Sukanya, said to her, 'Leave this old man and choose one of us'. Sukanya refused. Recognizing her fidelity, the Ashwini Kumaras were pleased and revealed the method to prepare Amalaki Prashana. By consuming it, Sage Chyavana not only regained his health but also became young again. Hence, Amalaki Prashana became famous as 'Chyawanprash’. This story highlights the virtues of devotion, loyalty and the transformative power of ancient knowledge and herbs.

    Más Menos
    5 m
  • ईश्वरसाक्षात्कारः
    May 27 2025

    रमणमहर्षेः भक्ताः वदन्ति स्म यत् रमणमहर्षिः भगवत्साक्षात्कारम् अपि प्राप्तवान् अस्ति इति । एतत् असहमानाः केचन क्रिस्तधर्मप्रचारकाः महर्षेः दाम्भिकता सप्रमाणं प्रकाशनीया इति सङ्कल्पितवन्तः । अतः‌ ते कतिपयैः विदेशीयैः पत्रकारैः सह महर्षेः आश्रमं गत्वा भवतः ईश्वरस्य साक्षात्कारं द्रष्टुम् इच्छामः इति अवदन् । तदङ्गीकृत्य महर्षिः तान् कुष्ठरोगपीडितस्य गृहम् अनयत् । तस्य सर्वविधसेवाः कृत्वा आङ्ग्लान् सम्बोध्य महर्षिः अवदत् 'एषः एव मम ईश्वरः । इत्थम् ईशसेवां करोमि । तस्य साक्षात्कारमपि प्राप्नोमि' इति । स्तब्धाः आङ्ग्लाः पत्रकाराश्च महर्षिं साष्टाङ्गं नमस्कृतवन्तः ।
    (“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)

    Devotees of Ramana Maharshi used to say that he had attained the direct vision of God. Unable to tolerate this, some Christian missionaries decided to expose Maharshi's so-called arrogance. They went to his ashram with a few foreign journalists and said, 'We wish to see your vision of God.' Maharshi agreed and took them to the home of a leprosy patient. After serving him in every possible way, Maharshi addressed the Englishmen and said, 'This is my God. This is how I serve Him, and I attain His vision through this service.' The stunned English journalists bowed before Maharshi.

    Más Menos
    4 m
  • एकस्य जनस्य अभावे......
    May 26 2025

    अमेरिकादेशे कस्याञ्चित् नद्यां कश्चित् विद्युत्स्तम्भः पतितः । अतिभारयुक्तं तं स्तम्भम् उन्नेतुं कर्मकराः असमर्थाः जाताः । इतोऽपि एकस्य जनस्य साहाय्ये अपेक्षितेऽपि तत्रत्यः प्रमुखः मम योग्यतायाः अननुगुणः व्यवहारः इति मत्वा साहायार्थं न गतवान् । तावता कश्चन अश्वारोही तत्रत्यां स्थितिं दृष्ट्वा कार्ये संलग्नः अभवत् । तस्य प्रोत्साहवचनेन कर्मकराः उत्साहध्वनिं कुर्वन्तः बलेन विद्युत्स्तम्भम् उन्नीय तीरं प्रापितवन्तः । यदा सः अश्वम् आरुह्य गन्तुम् उद्यतः तदा कर्मकरनायकः अपृच्छत् 'भवान् कः?’ इति । 'अहमस्मि अमेरिकायाः राष्ट्रपतिः जार्ज् वाशिङ्गट्न्' इति अवदत् सः अश्वारोही ।
    (“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)

    In a certain river in America, an electric pole had fallen. The workers were unable to lift the heavily loaded pole. Despite needing one more person’s assistance, the local leader, considering the task beneath his dignity, did not offer his help. Meanwhile, a horseman, seeing the situation, got involved in the task. Encouraged by his words, the workers raised the pole with great effort and brought it to the shore. As the horseman was about to leave, the leader of the workers asked, 'Who are you?' The horseman replied, 'I am George Washington, the President of the United States’. This story beautifully illustrates the values of humility, leadership and the importance of offering help regardless of one's position.

    Más Menos
    3 m
  • उभौ मार्गौ
    May 25 2025

    कदाचित् मृगयायै गतः जुनागढदेशस्य मृगयाप्रियः राजा अङ्गारः वेगेन अश्वं चालयन् सहचरेभ्यः पृथक् जातः । मृगयायां मारितान् बहून् शशान् अश्वस्य पुच्छे अबध्नात् सः । प्रतिगमनमार्गम् अजानन् सः इतस्ततः पश्यन् अश्वं मन्दं चालयन् वृक्षस्य मूले उपविष्टं ध्यानमग्नं कञ्चन संन्यासिनं दृष्टवान् । राजा तं प्रणम्य राजधानीं प्रति गमनार्थं मार्गम् अपृच्छत् । संन्यासी राज्ञः मृगयाप्रवृत्तिं दृष्ट्वा 'अहम् उभौ एव मार्गौ जानामि । प्राणिवधकर्ता नरकं याति, दयाशीलः जनः स्वर्गे विराजते' इति । एतस्मात् लज्जान्वितः राजा क्षमां याचित्वा प्राणिवधं परित्यक्तवान् ।
    (“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)

    Once, a king named Angara of Junagadh, who was fond of hunting, went on a hunting expedition. Riding his horse at great speed, he got separated from his companions. During the hunt, he killed many hares and tied them to the tail of his horse. Not knowing the way back, he wandered here and there, and saw a Sanyasi meditating under a tree. The king greeted the Sanyasi and asked for the way back to the capital. Observing the king's hunting activity, the Sanyasi said, 'I know two paths. The one who kills living beings goes to hell and the compassionate person ascends to heaven’. Feeling ashamed, the king sought forgiveness and gave up hunting.

    Más Menos
    3 m
adbl_web_global_use_to_activate_T1_webcro805_stickypopup