बालमोदिनी Podcast Por सम्भाषणसन्देशः arte de portada

बालमोदिनी

बालमोदिनी

De: सम्भाषणसन्देशः
Escúchala gratis

Acerca de esta escucha

सम्भाषणसन्देशः इति संस्कृतमासिकपत्रिका (https://sambhashanasandesha.in) । एतस्यां पत्रिकायां प्रकाशिताः लेखाः, कथाः, बालकथाः, वार्ताः इत्यादिकं सर्वम् अपि सरलसंस्कृतेन एव प्रकाश्यते । तत्रत्याः “बालमोदिनी”नामिकाः बालकथाः अत्र प्रसार्यन्ते । अतः अस्याः शृङ्खलायाः नाम अपि “बालमोदिनी” एव । लघु गात्रं, सरला भाषा च कथानां विशेषः । प्रत्येकं कथा काञ्चित् नीतिं बोधयति । बालकथाः आबालवृद्धं सर्वेषां प्रियाः । संस्कृतेन ताः श्रोतुम् उपलब्धाः भवन्तु इति एषः प्रयत्नः श्रोतृभ्यः अवश्यं रोचेत इति विश्वासः । संस्कृतक्षेत्रे संस्कृतेन पॉड्कास्ट् क्रियमाणाः एताः प्रप्रथमाः कथाः इति सगौरवम् उद्घोष्यते । Sambhashana Sandesha is a Sanskrit monthly magazine (https://sambhashanasandesha.in). The articles, stories, children's stories, news, and other content published in this magazine are all presented in simple Sanskrit. Among these, the children's stories titled “Balamodini” are featured. The series is named “Balamodini” as well. The hallmark of these stories is their short length and simple language. Each story imparts a specific moral lesson. Children’s stories are cherished by everyone, young and old alike. It is believed that listeners will appreciate this effort to make these stories available in Sanskrit. These are the first stories to be podcasted in the Sanskrit language within this field.© 2025 सम्भाषणसन्देशः Espiritualidad Hinduismo Literatura y Ficción
Episodios
  • अर्थहीनं वस्तुजातम्
    Jun 1 2025

    अस्यां कथायां वेदव्यासस्य पुत्रेण शुकदेवेन ज्ञायते यत् एतस्मिन् जगति विधिना निर्मितस्य वस्तुजातस्य अवश्यं हि कापि उपयुक्तता वर्तते एव । पूर्णरूपेण अनुपयुक्तं वस्तु दुर्लभम् एव । ईश्वरेण प्रत्येकं वस्तु मानवलोककल्याणार्थम् एव निर्मितम् । एतस्मिन् लोके सर्वथा अनुपयुक्तम्, अतः एव त्यक्तव्यम् एकमेव वस्तुजातम् । तद् अस्ति अहङ्कारः नाम । अतः सः गुरुं जनकं प्रार्थयते 'निरन्तरं निरहङ्कारः भूत्वा वर्तितुं यत् मनोबलम् आवश्यकं तत् ददातु कृपया' इति ।
    (“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)

    In this story, Shukadeva, the son of Vedavyasa, realizes that in this world, everything created by divine will has a purpose. Completely useless objects are indeed rare. Every creation of God is made for the welfare of humanity. In this world, there is only one entity that is entirely useless and must therefore be abandoned—that is ego. Thus, he prays to his Guru and father, saying, "Kindly grant me the mental strength necessary to always live without ego".

    Más Menos
    7 m
  • कन्यायाः पतिनिर्णयः
    May 31 2025

    कस्यचन पण्डितस्य कन्या सर्वगुणसम्पन्ना उच्चाकाङ्क्षिणी च प्रतिज्ञाबद्धा आसीत् यत् सर्वे यं प्रशंसन्ति, यश्च शक्तिशाली भवति तमेव अहं वृणोमि इति । एकदा सा महाराजं दृष्ट्वा तमेव वृणोमि इति अचिन्तयत् । किन्तु सः यदा गुरोः पादस्पर्शं करोति, तदा गुरुः एव श्रेष्ठः इति चिन्तयति । पुनः गुरुः देवं प्रणमति इति करणेन देवः श्रेष्ठः इति चिन्तयति । अन्ततो गत्वा पण्डितपुत्रः एकः दृष्टेभ्यः सर्वेभ्यः श्रेष्ठः इति मत्वा तेन सह उच्चाकाङ्क्षिण्याः कन्यायाः परिणयः जातः ।
    (“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)

    A scholar's daughter, endowed with all virtues and ambitious, had vowed that she would choose only the one who is admired by all and who is powerful. One day, upon seeing a great king, she thought of choosing him. However, when she noticed the king bowing at the feet of his Guru, she concluded that the teacher is greater. Later, seeing the Guru praying to God, she realized that God is the greatest. Finally, after much thought, she determined that the scholar's son was superior to all she had seen and decided to marry him.
    32. अर्थहीनं वस्तुजातम्

    Más Menos
    5 m
  • संसारमोहः
    May 30 2025

    कदाचित् प्रह्लादः वरयाचनसमये भगवन्तं नृसिंहं वदति यत् 'अहम् एकाकी मुक्तः भवितुं न इच्छामि । सर्वान् अपि जीवान् स्वीकृत्य वैकुण्ठं प्रति गमनाय अनुमतिं ददातु' इति । 'त्वमेव सर्वान् पृष्ट्वा ये वैकुण्ठं गन्तुम् इच्छन्ति तान् सर्वान् स्वीकृत्य आगच्छ' इति भगवान् वदति । ततः प्रह्लादः प्रष्टुं गच्छति । ब्राह्मणाः, परिव्राजकाः, राजानः, वणिजः, सेवकाः, पशुपक्षिणः इत्यादयः सर्वे अपि प्रह्लादेन सह वैकुण्ठं प्रति गमनं तिरस्कृतवन्तः । प्रह्लादः निराशतां प्राप्य 'सर्वेऽपि प्राणिनः स्वस्य एव कौटुम्बिकव्यापारे मग्नाः सन्ति । वैकुण्ठं गन्तुं कोऽपि उद्युक्तः नास्ति' इति भगवन्तम् उक्तवान् ।
    (“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)

    At the time of seeking a boon, Prahlada said to Lord Narasimha, "I do not wish to be liberated alone. Grant permission for all beings to be accepted and to ascend to Vaikuntha". The Lord replied, "You may ask everyone who wishes to go to Vaikuntha, take all those who agree, and then come". Following this, Prahlada went to inquire. Brahmins, ascetics, kings, merchants, servants, animals, birds, and others—all declined to accompany Prahlada to Vaikuntha. Disheartened, Prahlada expressed to the Lord, "All beings are engrossed in their familial and worldly affairs. No one is willing to take the initiative to ascend to Vaikuntha".
    31. कन्यायाः पतिनिर्णयः

    Más Menos
    4 m
adbl_web_global_use_to_activate_T1_webcro805_stickypopup
Todavía no hay opiniones