Devi Sthuthi Durga Sapthasathi Chanting Text Podcast Por  arte de portada

Devi Sthuthi Durga Sapthasathi Chanting Text

Devi Sthuthi Durga Sapthasathi Chanting Text

Escúchala gratis

Ver detalles del espectáculo
शक्रादिस्तुतिर्नाम चतुर्धोऽध्यायः ॥ ध्यानं कालाभ्राभां कटाक्षैर् अरि कुल भयदां मौलि बद्धेन्दु रेखां शङ्ख-चक्रं कृपाणं त्रिशिखमपि करै-रुद्वहन्तीं त्रिनेऱ्त्रम् । सिंह स्कन्दाधिरूढां त्रिभुवन-मखिलं तेजसा पूरयन्तीं ध्याये-द्दुर्गां जयाख्यां त्रिदश-परिवृतां सेवितां सिद्धि कामैः ॥ ऋषिरुवाच ॥1॥ शक्रादयः सुरगणा निहतेऽतिवीर्ये तस्मिन्दुरात्मनि सुरारिबले च देव्या । तां तुष्टुवुः प्रणतिनम्रशिरोधरांसा वाग्भिः प्रहर्षपुलकोद्गमचारुदेहाः ॥ 2 ॥ देव्या यया ततमिदं जगदात्मशक्त्या निःशेषदेवगणशक्तिसमूहमूर्त्या । तामम्बिकामखिलदेवमहर्षिपूज्यां भक्त्या नताः स्म विदधातुशुभानि सा नः ॥3॥ यस्याः प्रभावमतुलं भगवाननन्तो ब्रह्मा हरश्च नहि वक्तुमलं बलं च । सा चण्डिकाऽखिल जगत्परिपालनाय नाशाय चाशुभभयस्य मतिं करोतु ॥4॥ या श्रीः स्वयं सुकृतिनां भवनेष्वलक्ष्मीः पापात्मनां कृतधियां हृदयेषु बुद्धिः । श्रद्था सतां कुलजनप्रभवस्य लज्जा तां त्वां नताः स्म परिपालय देवि विश्वम् ॥5॥ किं वर्णयाम तवरूप मचिन्त्यमेतत् किञ्चातिवीर्यमसुरक्षयकारि भूरि । किं चाहवेषु चरितानि तवात्भुतानि सर्वेषु देव्यसुरदेवगणादिकेषु । ॥6॥ हेतुः समस्तजगतां त्रिगुणापि दोषैः न ज्ञायसे हरिहरादिभिरव्यपारा । सर्वाश्रयाखिलमिदं जगदंशभूतं अव्याकृता हि परमा प्रकृतिस्त्वमाद्या ॥6॥ यस्याः समस्तसुरता समुदीरणेन तृप्तिं प्रयाति सकलेषु मखेषु देवि । स्वाहासि वै पितृ गणस्य च तृप्ति हेतु रुच्चार्यसे त्वमत एव जनैः स्वधाच ॥8॥ या मुक्तिहेतुरविचिन्त्य महाव्रता त्वं अभ्यस्यसे सुनियतेन्द्रियतत्वसारैः । मोक्षार्थिभिर्मुनिभिरस्तसमस्तदोषै र्विद्याऽसि सा भगवती परमा हि देवि ॥9॥ शब्दात्मिका सुविमलर्ग्यजुषां निधानं मुद्गीथरम्यपदपाठवतां च साम्नाम् । देवी त्रयी भगवती भवभावनाय वार्तासि सर्व जगतां परमार्तिहन्त्री ॥10॥ मेधासि देवि विदिताखिलशास्त्रसारा दुर्गाऽसि दुर्गभवसागरसनौरसङ्गा । श्रीः कैट भारिहृदयैककृताधिवासा -- देवी माहात्म्यं दुर्गा सप्तशति चतुर्थोऽध्यायः Read full text in Vignanam App: https://vignanam.page.link/uFGrRwDntUzyBumA8
Todavía no hay opiniones