सत्यनिष्ठा Podcast Por  arte de portada

सत्यनिष्ठा

सत्यनिष्ठा

Escúchala gratis

Ver detalles del espectáculo

OFERTA POR TIEMPO LIMITADO | Obtén 3 meses por US$0.99 al mes

$14.95/mes despues- se aplican términos.

श्रीमतः गोपालकृष्णगोखलेवर्यस्य बाल्ये प्रवृता घटना एषा । कदाचित् शिक्षकः कांश्चन प्रश्नान् दत्तवान् । यद्यपि सर्वे छात्राः प्रश्नानाम् उत्तराणि अलिखन् तथापि गोखलेवर्यस्य एव सर्वेषां प्रश्नानाम् उत्तराणि उत्तमरीत्या अलिखत् । एतेन सन्तुष्टः शिक्षकः भूरि प्रशंसां कृत्वा तस्मै पुरस्कारं दातुं यदा उद्युक्तः तदा रोदनम् आरब्धं गोखलवर्येण । 'किमर्थं रोदिति ?’ इति शिक्षकेण पृष्टे अवदत् गोखलेवर्यः 'एतेषु उत्तरेषु एकस्य प्रश्नस्य उत्तरं मम मित्रं पृष्ट्वा अलिखम् । भवन्तं वञ्चितवान् अस्मि । अतः अहं न पुरस्कारार्हः, अपि तु दण्डनार्हः' इति । तस्य सत्यवचेन सन्तुष्टः शिक्षकः 'भवतः सत्यप्रियतायै पुरस्कारः दीयते' इति उक्तवान् ।
(“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)

This is an incident from the childhood of the revered Gopal Krishna Gokhale. Once, a teacher gave some questions to the students. Although all the students wrote answers, only Gokhale wrote all of them in the best manner. The teacher, pleased with him, praised him greatly and was about to give him a reward. But Gokhale began to cry. When the teacher asked the reason, Gokhale said: “For one of these answers, I asked my friend and wrote it down. I have deceived you. Therefore, I am not worthy of a reward, but rather of punishment”. Hearing his truthful words, the teacher was deeply satisfied and said: “This reward is given to you for your love of truth”.

Todavía no hay opiniones